Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मध्यप्रदेश-राजस्थान-छत्तीसगढ़-तेलंगाना-मिजोरमराज्येषु विकसितभारतसंकल्पयात्रायाः आभासीयमुद्घाटनं कुर्वन् प्रधानमन्त्री विकसितभारतस्य संकल्पे नगराणां महत्भूमिकाया: उपरि बलं दत्तवान्। ग्रामीणक्षेत्रस्य लाभार्थिभिः सह चतुर्णां संवादानामनन्तरं प्रधानमन्त्रिणा शनिवासरे नगरीयक्षेत्रस्य लाभार्थिषु ध्यानं केन्द्रितम्। ग्राम्यदरिद्रेभ्यः नगरस्य वसतिपर्यन्तं योजनाः इत्येतत् लक्ष्यं प्रति प्रतिबद्धतां प्रकटयन् सः प्रत्याभूतिं दत्तवान्। तेनोक्तं यत् ये अवशिष्टाः सन्ति तेऽपि भविष्ये योजनानां लाभं प्राप्नुयुः। विभिन्नयोजनानां लाभं गृहीतवन्तः लाभार्थिनः दूतरूपेण अन्येभ्यः योजनाभ्यः कथं लाभं प्राप्तवन्तः इति कथयितुं सः आह्वानं कृतवान्।

अद्यतनवार्ता

भारतम्

विश्वम्