Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे लोकसभायां राष्ट्रपतिसम्बोधनस्य उत्तरं दत्तवान्। ८५ निमेषात्मके भाषणे सः राहुलगान्धिना अदानीविषये पृष्टस्य कस्यापि प्रश्नस्य उत्तरं न दत्तवान् । प्रधानमन्त्रिणः सम्पूर्णे भाषणे अदानी इत्यस्य उल्लेखः अपि न अभवत् । परन्तु राहुलस्य भारतजोडोयात्रायाः विपक्षस्य एकतायाः आरभ्य मोदी वाक्प्रहारं कृतवान्। मोदिना उक्तं यत् कोंग्रेसस्य नाशस्योपरि निश्चयेन संशोधनं भविष्यति। ये अहङ्कारमत्ताः सन्ति ते चिन्तयन्ति यत् केवलं तेषाम् एव  ज्ञानम् अस्ति। ते मन्यन्ते यत् मोदिनः घृणया एव मार्गः प्रशस्तः भविष्यति चेत् मिथ्या एव।

मोदिनः भाषणानन्तरं राहुलगान्धी अवदत् प्रधानमन्त्री मम एकस्य अपि प्रश्नस्य उत्तरं न दत्तवान्। सः मित्रं तारयति। 

अद्यतनवार्ता

भारतम्

विश्वम्