Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी स्वस्य कर्णाटकप्रवासे अनेक-विकासयोजनानां आरम्भं कृतवान्। तदन्तर्गतं बेंगलुरुनगरे नादप्रभु-केम्पेगौडावर्यस्य अष्टोत्तरशतफुट्-मितोच्च-कांस्य-प्रतिमायाः स्टेचु ओफ प्रोसपेरिटी इति समृद्धिसूचकप्रतिमायाः अनावरणं कृतवान्। एतत्पूर्वं सः केम्पेगौडा अन्ताराष्ट्रय-विमान-पत्तनस्य टर्मिनल-द्वितीयस्य अपि उद्घाटनमकरोत्। सः के.एस.आर. रेलस्थानके चैन्नैइ-मैसुर-वन्देभारत-एक्सप्रेस रेलयानम् अपि च भारतगौरव-काशीदर्शन-रेलयानं हरित-ध्वज-प्रदर्शनपूर्वकं प्रस्थापितवान्। तत्र आयोजितायां तेनोक्तं यत् यातायातसम्पर्कः भारतस्य विकासे महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्