Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रपतिः द्रौपदीमुर्मू शनिवासरे असमयात्रावसरे तेजपुरवायुसेनास्थात्रात् सुखोई-३० एमकेआई युद्धविमानेन उड्डयनम् अकरोत्। एतत् तस्या: प्रथमं युद्धविमानस्य उड्डयनम् आसीत्। एषा सूचना अधिकारिभिः दत्ता। गणप्रमुखः नवीनकुमारतिवारी राष्ट्रपतिं सुखोई-३० एम.के.आइ. इति वायुयानेन उड्ड्यनम् अकारयत्। अस्मिन् काले सा विमानसम्बद्धानि बहूनि विवरणानि पृष्टवती। तदनन्तरं यदा सा पुनः अधः आगता तदा सा अतीव प्रसन्ना दृश्यते स्म ।

अद्यतनवार्ता

भारतम्

विश्वम्