Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देहल्यां प्रवर्धमान-प्रदूषण-कारणात् मुख्यमन्त्रिणा अरविन्दकेजरीवालेन महत्त्वपूर्णः निर्णयः स्वीकृतः । मुख्यमन्त्रिणा पत्रकारपरिषदि उद्घोषितम् यत् देहल्यां अग्रिमादेशं यावत् सर्वेऽपि प्राथमिकविद्यालयाः पिहिताः भविष्यन्ति । प्रदूषणेन देहल्याः वायुमण्डलं भृशं दूषितम् अस्ति । राजधान्याः वायुगुणवत्तासूचकाङ्कः महदापद्-श्रेण्याः समीपम् एव अस्ति। वायुगुणवत्ताप्रबन्धनायोगेन देहल्यां तथा देहलीं परितः प्रदेशेषु डीझलतैलचालितानां भारवाहकानां यानानां प्रवेशप्रतिबन्धः उद्घोषितः अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्