Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदिना बुधवासरे दिल्लीनगरस्य प्रगतिमैदानस्थले नूतनस्य आईटीपीओ परिसरस्य 'भारत मण्डपम्' इत्यस्य उद्घाटनं कृतम्। अस्मिन् काले जनान् सम्बोधयन् सः अवदत् यत् अस्माकं तृतीयकार्यकाले वयं विश्वस्य तिसॄणां बृहत् अर्थव्यवस्थानां मध्ये सम्मिलिताः भविष्यामः इति। स: उक्तवान् यत् अस्माकं प्रथमकार्यकाले भारतं विश्वस्य दशक्रमाङ्कस्य अर्थव्यवस्था आसीत्, अधुना द्वितीयकार्यकाले वयं पञ्चमस्थाने आगताः, अस्माकं तृतीयकार्यकाले वयं विश्वस्य तिसॄणां बृहत्तमानां अर्थव्यवस्थानां मध्ये भविष्यामः। एषा मोदिन: समय: अस्ति। २०२४ तमस्य वर्षस्य अनन्तरं भवन्तः स्वप्नानां पूर्णतां स्वनेत्रेण द्रक्ष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्