Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

खालिस्तानसमर्थकस्य अमृतपालस्य ९ सहयोगिनः च पञ्जाब-आरक्षकदलेन शनिवासरे विभिन्नस्थानात् गृहीताः। अजनाला-आरक्षकालये आक्रमणप्रकरणे एतेषां निग्रहणं जातम्।

जालन्धरतः मोगां प्रति गच्छन्त: अमृतपालस्य ६ सहचराः शनिवासरे अपराह्णे पञ्जाबपुलिसदलद्वारा परितः अवरुध्य गृहीता: परन्तु अमृतपालः स्वयमेव कारयाने उपविश्य पलायितवान्। तदनु जालन्धरस्य नकोदरक्षेत्रे प्रायः १०० आरक्षकवाहनैः सार्धघण्टापर्यन्तं तस्य अनुसरणं कृतं परन्तु हस्ते नागतः। अन्ये त्रयः अपि विभिन्नस्थानात् गृहीताः।

इदानीं पञ्जाबदेशे प्रवर्तमानपरिस्थित्यां आशङ्कायाः ​​कारणात् २४ घण्टापर्यन्तं मोबाईल-अन्तर्जालसेवाः स्थगिताः। अपरपक्षे मोहालीनगरे अमृतपालस्य निग्रहणस्य विरोधः आरब्धः अस्ति। चण्डीगढ-मोहाली-सीमायां “इन्साफ-मोर्चा” इति निहङ्गाः खड्ग-दण्ड-सहिताः सूत्रोच्चारं कुर्वन्तः मार्गम् अवरुद्धवन्तः ।

पूर्व  एकस्मिन् प्रकरणे स्वस्य निकटतमस्य सहयोगिनः मुक्त्यर्थे क्रुद्धः अमृतपालः समर्थकैः सह २३ फेब्रुवरी दिनाङ्के अजनालापुलिसस्थाने आक्रमणं कृतवान् आसीत्। अस्मिन् प्रकरणे केचन आरक्षकाः अपि आहताः आसन्। 

अद्यतनवार्ता

भारतम्

विश्वम्