Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रूसस्य राष्ट्रपतिः व्लादिमीर् पुतिन् गुरुवासरे अवदत् यत् यः कोऽपि देशः रूसदेशं भर्त्सयति तस्य विरुद्धं कठोरपरिहारः करणीयः। युक्रेनदेशाय विचक्राणां आपूर्तिं कर्तुं जर्मनीदेशस्य वचनस्य विषये अपि सः अप्रसन्नतां प्रकटितवान्। सः अवदत् - अस्माकं पुनः जर्मनदेशस्य लेपर्ड-टेंक इति विचक्रात् भयम् अस्ति परन्तु रूस-देशेन सह एतत् आधुनिकं युद्धं सर्वथा भिन्नं भविष्यति। वयं पाश्चात्यदेशानां सीमासु विचक्राणां प्रयोगं न करिष्यामः परन्तु तेषां प्रतिक्रियां दातुं शक्नुमः, एतत् च कवचवाहनानां उपयोगे एव सीमितं न भविष्यति। इति।  पुतिनः बहुवारं पश्चिमस्य विरुद्धं परमाणुशस्त्राणां प्रयोगं करिष्यामि इति भर्त्सनम् अपि अयच्छत् 

अद्यतनवार्ता

भारतम्

विश्वम्