वातावरणविभागस्य वृत्तानुसारं अस्मिन् सप्ताहे मध्यभारतस्य पश्चिमभारतस्य च कतिपयेषु राज्येषु वृष्टेः सम्भावना आसीत्। गतदिनात् गुजरातसहितेषु राज्येषु वातावरणं परिवर्तितम् अस्ति। कुत्रचित् वर्षायाः कुत्रचित् पयोघनानां वा वार्ता श्रूयते। अद्यापि होलिकादहनसमये मेघगर्जनेन सह गुजरातस्य अनेकेषु स्थानेषु वर्षा आरब्धा अस्ति। एतेन रङ्गोत्सवे बाधा उत्पना अस्ति। कृषकाः अपि अकाले जायमानेन प्रवर्षेण चिन्तातुराः सन्ति।




1.jpg)
















