अजमेरस्य ख्वाजा मोइनुद्दीन चिश्ती दरगाहस्थानं हिन्दुमन्दिरं घोषियितुं कृतस्य प्रतिपानस्य विषये सोमवासरे (०४ अगस्त) उच्चन्यायालये वादश्रवणम् अभवत्। अजमेरस्य जिलान्यायालये पूजायाः अनुमतिं प्राप्तुं प्रचलत: प्रकरणस्य विरुद्धं राजस्थान उच्चन्यायालये प्रस्तुतयाचिकायाः विषये इदं वादश्रवणम् अभवत्। उच्चन्यायालयेन सर्वेभ्यः पक्षेभ्यः सूचनां दत्त्वा सप्ताहद्वये उत्तरं दातुं कथितम् अस्ति।