Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

रामनवम्याः पावनावसरे आयोजितासु शोभायात्रासु गुजरातस्य वडोदरानगरे, महारष्ट्रस्य सांभाजीनगरे जलगांवनगरे च, बिहारस्य नालंदायां च उपद्रविभिः आक्रमणं कृतम् आसीत्। 

गुरुवासरे पश्चिमबङ्गस्य हावड़ा-उत्तरदीनाजपुरप्रदेशे शोभायात्रायाः समये हिंसक-सङ्घर्ष: अभवत्। शुक्रवासरे २४ घण्टाभ्यन्तरे पुनः शिबपुरे पाषाणप्रहारस्य घटना जाता अस्ति। अत्र सम्प्रदायविशेषद्वारा मन्दिरेषु अपि आक्रमणं कृतम्।

विविधेषु स्थानेषु जाते आक्रमणे नैके जनाः आरक्षकाः वार्ताहराः च आहताः सन्ति। त्रिषु राज्येषु अधुना यावत् अशीतिः विध्वंसकारिणः गृहीताः सन्ति। सी.सी.टी.वी. एत्यादिभि: उपायैः विध्वंसकारिणां अन्वेषणं प्रचलति। 

अद्यतनवार्ता

भारतम्

विश्वम्