Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतीयक्रिकेटदलस्य क्रीडक: ऋषभपन्त: शुक्रवासरे प्रातःकाले कारदुर्घटनायां आहतः जात:। दुर्घटानायाः सीसीटीवी-दृश्यं बहिरागतः। तत्र दृश्यते यत् ऋषभस्य यानं वेगेन गच्छदासीत् तदा कारयानं अनियंत्रितरूपेण स्तवरकं त्रोटयित्वा नष्टीभूतः। क्षणान्तरे एव अनलः समुद्भूतः। ऋषभः तत्क्षणमेव वातायनं भग्नं कृत्वा अवतरत्। स्थानिकैः जनैः गम्भीररूपेण आहतस्य ऋषभस्य चिकित्सालयगमनस्य व्यवस्था कृता। वैद्यानां मतेन ऋषभस्य स्थितिः स्थिरा अस्ति। ऋषभपन्तः कारयानेन उत्तराखण्डं गच्छति स्म उत्तराखण्डस्य डीजी अशोककुमारस्य कथनानुसारं पन्तः वाहनचालनकाले निद्रां गतः, अतः सः कारयानं नियन्त्रयितुं अक्षमः जात:। सः एकाकी एव कारयाने आसीत्। 

अद्यतनवार्ता

भारतम्

विश्वम्