Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्ली-मुख्यमन्त्री अरविन्द केजरीवालः प्रधानमन्त्रिणं प्रति लिखेते पत्रे अनुरोधं कृतवान् यत् रेलवेमन्त्रालयद्वारा वरिष्ठनागरिकाणां कृते यात्राशुल्के विशेषसुविधा पुनः आरभणीया। तेन उक्तं यत् वृद्धानां आशीर्वादं विना कोऽपि व्यक्तिः समाजः वा विकासं कर्तुं न शक्नोति इति। शनिवासरे प्रधानमन्त्रिणं प्रति लिखिते पत्रे केजरीवालः उक्तवान् यत् केन्द्रस्य अर्थसङ्कल्पः ४५ लक्षकोटिरूप्यकाणाम् अस्ति तथा च यदि वरिष्ठनागरिकेभ्यः यात्राशुल्के लाभान् दीयते तर्हि तस्मिन् १६०० कोटिरूप्यकाणि व्ययितानि भविष्यन्ति। अयं राशि: समुद्रे एकः बिन्दुः एव। राशिं रक्षित्वा सर्वकारः धनिकः न भविष्यति इति। वरिष्ठनागरिकाः पूर्वं रेलयात्रायां ५० प्रतिशतं यावत् विशेषलाभं प्राप्नुवन्ति स्म, तस्य उन्मूलनं दुर्भाग्यपूर्णम् इति। 

अद्यतनवार्ता

भारतम्

विश्वम्