Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कर्नाटक-महाराष्ट्रयोः सीमाविवादः मंगलवासरे हिंसकः अभवत् । कर्नाटकस्य बेल्गौम-नगरे महाराष्ट्रस्य ट्रकयानेष ुकन्नडसमूहस्य 'कर्नाटकरक्षावैदिक'-सदस्याः पाषाणपातं कृतवन्तः । हिरबागदेवाडी मार्गशुल्कद्वारस्य समीपे एषा घटना अभवत्। पाषाणपातं कुर्वन्तः जनाः आरक्षकैः निग्रहे गृहीताः। अपरपक्षे पूर्वमुख्यमन्त्री उद्धवठाकरेदलस्य शिवसैनिकाः पुणेनगरे कर्णाटकबसेषु 'जयमहाराष्ट्र' इति लिखित्वा घटनायाः विरोधं कृतवन्तः,  उक्तं च यत् वयं सुसंस्कृताः स्मः अतः बसयानानां हानिः न भविष्यति। फडणविस: कर्णाटकस्य मुख्यमन्त्रिणा बोम्माई इत्यनेन सह वार्तालापं कृत्वा अप्रसन्नतां प्रकटितवान्।

अद्यतनवार्ता

भारतम्

विश्वम्