Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

जम्मू-कश्मीरस्य लोकप्रियपर्यटनस्थले दालसरोवरे शनिवासरे नौकागृहेषु भयंकरः अग्निः प्रज्वलितः। अस्यां घटनायां त्रयः यात्रिकाणां मृत्योः सूचना अस्ति। अग्निना कोटिरूप्यकाणां सम्पत्तिः अपि दग्धा अभवत्। त्रीणि मृतशरीराणि प्राप्तानि सन्ति। ९ क्रमाङ्कस्य घाटस्य समीपे त्रीणि मृतशरीराणि दग्धस्थितौ प्राप्तानि इति अधिकारिणः अवदन्। मृतेषु एक: पुरुष: एक: महिला चेति संज्ञानं जातम्। परन्तु तृतीयस्य विषये सूचना न प्राप्ता। अग्नेः कारणम् अद्यापि न ज्ञातं नास्ति।

अद्यतनवार्ता

भारतम्

विश्वम्