Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अपराधिनः अतीक-अहमदस्य पुत्रः असदः, शीघ्रवेधी गुलाम मोहम्मदः च गुरुवासरे यूपीपुलिसद्वारा मारितौ। उमेशपालहत्याप्रकरणे उभौ पलायितौ आस्ताम्। उभयोः प्रत्येकं पञ्चलक्षरूप्यकाणां पुरस्कारः आसीत् । आरक्षकाणां मतेन तेषां समीपे विदेशीयानि शस्त्राणि अपि प्राप्तानि सन्ति। झाँसीनगरस्य पारीछा डैम समीपे एसटीएफ इत्यनेन सह सङ्घर्ष: जात: आसीत्। 

एडीजी प्रशांतकुमारेणोक्तं यत् अतीकस्य गमनमार्गे आक्रमणं कृत्वा तस्य मोचनस्य योजनायाः गुप्तसूचना प्राप्ता आसीत् अतः विशेषबलानि नियोजितानि आसन्। 

असदः गुलाम मोहम्मदः च २४ फेब्रुवरी दिनाङ्के उमेशपालस्य हत्यायाः अनन्तरं पलायितौ आस्ताम् । एसटीएफ ४८ दिवसान् यावत् तस्य निरन्तरम् अन्वेषणं चलति स्म, अन्ततो गत्वा झांसीनगरे तस्य स्थानपुष्टि: जाता।

एसटीएफ डीआईजी अनन्तदेव तिवारी इत्यनेन उक्तं यत् उमेशपालहत्याप्रकरणस्य मुख्यापराधिनौ असदः गुलामः च पुलिसदलं दृष्ट्वा बाईकयानेन पलायनस्य प्रयासं कृतवन्तौ। एसटीएफ-दलेन यदा तस्य अनुसरणं कृतं तदा ताभ्यां विदेशीय-अत्याधुनिकशस्त्रैः गोलीकाण्डः कृतः। प्रतिकारात्मकप्रहारे तस्य द्विचक्रिका पतिता। ३० निमेषान् यावत् चलति सङ्घर्षे ४९ गोलिका चालिता:।

अद्यतनवार्ता

भारतम्

विश्वम्