Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बाबारामदेवस्य नेतृत्वे पतञ्जलि आयुर्वेदः संस्थया बुधवासरे स्वस्य उत्पादानाम् विषये प्रतिपादितं यत् ते किमपि मिथ्याविज्ञापनं प्रचारं वा न कुर्वन्ति इति। 

वस्तुत: एकदिनपूर्वमेव सर्वोच्चन्यायालयेन पतञ्जलि-आयुर्वेद-संस्थायै प्रत्यादेश: दत्त: आसीत् यत् अनेकेषां रोगाणां चिकित्सायां स्व-औषधानां विषये मिथ्या-भ्रम-विज्ञापनं न दर्शयन्तु इति। एकदिनानन्तरं पतञ्जलि-आयुर्वेदेन उक्तं यत् तस्य कोट्यधिकानां जनानां परीक्षणस्य दत्तांशा: सन्ति यस्मिन् समग्रस्य विश्वस्य वास्तविकं प्रयोगप्रमाणा: सन्ति इति। संस्था न्यायालयस्य आदरं करोति, "यदि अस्माकं विज्ञापनं मिथ्या इति ज्ञायते तर्हि यदि माननीयन्यायालयः अस्मभ्यं कोटिरूप्यकाणां दण्डं ददाति अथवा मृत्युदण्डमपि ददाति तर्हि अस्माकं न कापि बाधा" इति।

हरिद्वारनगरे पत्रकारान् सम्बोधयन् रामदेवः अवदत् यत् शीर्षन्यायालयेन तस्य पक्षस्य अपि श्रवणं कर्तव्यम् आसीत्। रामदेवः अवदत् यत् यदि सर्वोच्चन्यायालयः तस्मै स्वस्य प्रकरणं प्रस्तुतुं अवसरं ददाति तर्हि सः स्वयमेव स्वस्य पक्षस्य समर्थने सम्पूर्णतथ्यानि, चिकित्सासाक्ष्याणि, वैज्ञानिकसंशोधनपत्राणि च गृहीत्वा न्यायालयस्य समक्षं उपस्थितः भवितुम् सज्जः अस्ति। सः आयुर्वेद-योग-द्वारा गम्भीर-रोगाणां पूर्णतया चिकित्सां कर्तुं स्वस्य प्रतिपादने अद्यापि दृढः इति अवदत्। 

अद्यतनवार्ता

भारतम्

विश्वम्