Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य खैबरपख्तुन्ख्वाप्रान्ते आत्मघातिनि आक्रमणे चीनदेशस्य पञ्च अभियन्तार: एक: पाकिस्ताननागरिकः च मृताः। पाकिस्तानस्य वार्तामाध्यमस्य जियो न्यूज इत्यनुसारं मङ्गलवासरे चीनदेशस्य अभियन्तॄणां वाहनम् बेशम्-नगरं गच्छति स्म तदा आक्रमणमिदं जातम्। अत्रान्तरे आतङ्कवादिनः विस्फोटकभारयुक्तं वाहनम् अभियन्तॄणां वाहनेन सह आघातं कृतवन्त:। आतङ्कवादिनां आक्रमणस्य एकघण्टानन्तरं पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः इस्लामाबादनगरम् आगत्य चीनराजदूतेन सह स्पष्टतां कृतवान्। पाकिस्तानदेशः अन्तपर्यन्तं आतङ्कवादस्य विरुद्धं युद्धं करिष्यति इति शरीफः राजदूतं आश्वासितवान्।

अद्यतनवार्ता

भारतम्

विश्वम्