Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संयुक्तराष्ट्रसङ्घस्य गोष्ठ्यां कश्मीरविषये पाकिस्तानस्य टिप्पण्याः अनन्तरं भारतस्य विदेशमन्त्री एस जयशङ्करः अस्मिन् एव मञ्चे प्रतिक्रियाम् अददात् । एस जयशंकरः अवदत् यत् यः देशः ओसामा बिन् लादेनस्य आतिथ्यं कुर्वन् आसीत्, यः स्वप्रतिवेशिन: संसदि आक्रमणं कृतवान्... सः संयुक्तराष्ट्रसङ्घस्य महति मञ्चे व्याख्यानानि दातुं समर्थः नास्ति। संयुक्तराष्ट्रसङ्घे भारतस्य स्थायिसदस्यायाः रुचिराकम्बोजस्य अध्यक्षतायां बहुपक्षीयतायाः विषये चर्चा अभवत् । चर्चायामस्यां पाकिस्तानस्य विदेशमन्त्री बिलावल भुट्टो कश्मीरस्य विषयं उत्थापितवान् आसीत्। जयशङ्करः पाकिस्तानेन सह चीनदेशमपि लक्ष्यीकृत्य आतङ्कवादविरुद्धम् उक्तवान् आसीत्।  

अद्यतनवार्ता

भारतम्

विश्वम्