Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

त्रिपुरायाः उनाकोटीमण्डले बुधवासरे सायं जगन्नाथयात्रायाः रथः उच्चविद्युत्सूत्रस्य सम्पर्के आगतः। अस्य कारणात् बालकद्वयेन सह ७ जनानां मृत्युः अभवत्। १८ जनाः च आहता: अभवन्। ते गम्भीरस्थितौ चिकित्सालये प्रवेशिता:। 

पुलिस-अनुसारं इस्कॉन-मन्दिरेण आयोजितस्य ‘विपरित-रथयात्रा’-महोत्सवस्य समये कुमारघाटक्षेत्रे सायं ४.३० वादनस्य समीपे एषा घटना अभवत्। लोहनिर्मितं रथं भक्ताः कर्षन्ति स्म । एतस्मिन् समये रथः १३३ केवी इत्यस्य विद्युत्सूत्रस्य सम्पर्कं प्राप्तवान्। त्रिपुरायां भगवत: जगन्नाथस्य रथयात्रायाः एकसप्ताहस्य अनन्तरं विपरितरथयात्रा भवति। अस्मिन् ईश्वरस्य रथ: पृष्ठत: आकृष्यते। 

अद्यतनवार्ता

भारतम्

विश्वम्