Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रपतिः डोनाल्ड ट्रम्पः गतसप्ताहद्वयं यावत् निरन्तरं भारतविरोधि वक्तव्यं ददाति। अद्य ट्रम्पः घोषितवान् यत् अमेरिका भारते शुल्के अत्यधिकवृद्धिं करिष्यति। उल्लेखनीयं यत् पूर्वं ट्रम्पः भारते २५ प्रतिशतं शुल्कं घोषितवान् आसीत्। डोनाल्ड ट्रम्पः स्वस्य सामाजिकमाध्यममञ्चे Truth Social इत्यत्र एकस्मिन् पोस्ट् मध्ये भर्त्सनम् अयच्छत् यत्, 'भारतदेशः न केवलं रूसदेशात् बृहत् परिमाणेन तैलं क्रीणाति अपितु तस्य बृहत् भागं मुक्तविपण्यां विक्रीय लाभम् अपि प्राप्नोति। रूसस्य युद्धयन्त्रे कति युक्रेनदेशवासिन: म्रियन्ते इति भारतस्य चिन्ता नास्ति। अतः भारते आरोपितशुल्कं भृशं वर्धयिष्यामि।'

अद्यतनवार्ता

भारतम्

विश्वम्