Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

तमिलनाडुराज्यस्य मुख्यमन्त्रिण: एमकेस्टालिनस्य पुत्रः उधयनिधि स्टालिनः सनातनधर्मस्य तुलनां डेंगू, मलेरिया, कोरोना इत्यनेन सह कृतवान्। उधयनिधि अवदत्- मशकाः, डेंगू, ज्वरः, मलेरिया, कोरोना च एतादृशाः केचन विषयाः सन्ति, येषां केवलं विरोधं कर्तुं न शक्यते, अपितु तेषां निराकरणं आवश्यकम् अस्ति। उधयनिधिः शनिवासरे ’सनातन-उन्मूलन’ इति कार्यक्रमे एतानि वचनानि अवदत्। सः कार्यक्रमस्य नाम अपि प्रशंसितवान्। स अवदत्- सनातन इति किम् ? सनातनशब्दः संस्कृतात् आगतः। एतत् समानतायाः सामाजिकन्यायस्य च विरुद्धम् अस्ति। सनातनस्य अर्थः-स्थायी अर्थात् तादृशं वस्तु यस्य परिवर्तनं कर्तुं न शक्यते। यस्मिन् विषये कोऽपि प्रश्नान् उत्थापयितुं न शक्नोति। उधयनिधिः तमिलनाडुराज्यस्य मन्त्री अपि अस्ति। उधयनिधिस्टालिनस्य विरुद्धं एकेन अधिवक्त्रा दिल्लीनगरे प्राथमिकी पङ्जीकृता अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्