Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

उज्जयिनीनगरस्थे महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये संस्कृतशिक्षण-प्रशिक्षणज्ञानविज्ञानसंवर्धन-केन्द्रस्य  तत्वावधाने कुलपते: आचार्यविजयकुमारसीजीवर्यस्य परिकल्पनया संस्कृतसंवर्धनाय शास्त्रसंरक्षणाय  च उच्चशिक्षाविभागे कार्यरतानां स्थानीयसंस्कृतविदुषां एका संगोष्ठी आयोजिता। नवीनशिक्षानीति:, संस्कृतसंवर्धनं, नवाचार:, समस्यापरिहाराश्च इत्येतेषु विषयेषु संगोष्ठ्यामस्यां चर्चा जाता। अस्मिन्नवसरे उज्जयिनीमण्डलस्य महाविद्यालयस्य विश्वविश्वविद्यालयस्य च प्राध्यापकाः समुपस्थिताः आसन्। कार्यक्रमस्य संयोजनं  डॉ. दिनेशचौबेमहोदयेन कृतम्। अस्यां विचारसङ्गोष्ठ्यां पाठ्यक्रमाणां सरलीकरणं, नवीन पाठ्यक्रमाणानां निर्माणं, संस्कृतक्षेत्रे उद्योगावसराः इत्यादिविषयेषु अपि चर्चा जाता।

अद्यतनवार्ता

भारतम्

विश्वम्