Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतसर्वकारस्य शिक्षामन्त्रालयस्याधीनं केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशतमी-परियोजनानन्तर्गतम्  उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयेन तिस्रः परियोजना: स्वीकृता:। भारतीयज्ञानपरम्पराया: प्रणेतारा: ऋषय: ,आचार्या: तेषां अवदानाधारितं  चलचित्राणां निर्माणं , शास्त्रार्थकौशलप्रशिक्षणं, शास्त्रसुधा नामिका:  परियोजनाः अन्तिमरूपेण स्वीकृता:।

वार्ताहरस्य डॉ.दिनेशेस्य विवरणानुसारं व्याकरणविभागप्रमुखस्य डॉ.अखिलेशकुमारद्विवेदिमहोदयस्य प्रधानगवेष्कत्वेन भारतीयज्ञानपरम्परायां  महापुरुषाणां  योगदानम् इति विषये चलचित्राणां निर्माणं भविष्यति,  परियोजनेयम् एकवर्षस्य भविता। प्रमुखवैय्याकरणानां चलचित्राणां संस्कृत-हिन्दी-अङ्ग्रेजी भाषासु निर्माणं भविष्यति। अनेन सञ्चार-प्रौद्योगिक्या: तकनीकीमाध्यमेन संस्कृतस्य प्रचार - प्रसार: भविष्यति। "शास्त्रार्थकौशलप्रशिक्षणम्” इति परियोजनायाः प्रधानगवेषक: साहित्यविभागप्रमुख: डॉ. तुलसीदासपारौहामहोदय: अस्ति। भारते शास्त्रार्थस्य महती परम्परा वर्तते किन्तु सम्प्रति सा परम्परा विनष्टा अस्ति अतः शास्त्रसंरक्षणं कर्तुं शास्त्राणां पूर्वपदम् उत्तरपदं चाधिकृत्य प्रशिक्षणं प्रदास्यते। अनेन नानाशास्त्रेषु योग्यविद्वांसः सज्जीभविष्यन्तीति। शास्त्रसुधा इति परियोजनाया: प्रधाननिदेशक: योगविभागप्रमुख: डॉ. उपेन्द्र भार्गवमहोदय: वर्तते अस्यां परियोजनायां ज्योतिषश्शास्त्रस्य शिक्षणसामग्र्याः सरलभाषया चलचित्रनिर्माणं भविष्यति यस्मिन् पञ्चाङ्गनिर्माण-ग्रहणविचार-ग्रहगति-वेधशालानिर्माण-आदिनां समावेश: भविष्यति। अनेन छात्राणां सामाजिकानाञ्च महान् लाभः भविष्यति। अस्मिन्नवसरे कुलपतिवर्य: सर्वान् शुभकामना: प्रदत्तवान्। विश्वविद्यालयस्य  कुलसचिव: डॉ. दिलीपसोनीमहोदय: उक्तवान् यत् कुलपतिमहोदयस्य कुशलनिर्देशने दिनानुदिनं विश्वविद्यालयस्य सर्वविध:  विकास: जायमानो वर्तते ।आचिरादैव देशस्य प्रमुखेषु विश्वविद्यालयेषु पाणिनिविश्वविद्यालयस्य नामोल्लेखः संभविष्यतीति।

अद्यतनवार्ता

भारतम्

विश्वम्