Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

युक्रेनदेशेन राष्ट्रपतेः व्लादिमीर् पुतिन् इत्यस्य गृहे ड्रोन्-आक्रमणस्य प्रयासः कृतः इति रूसदेशेन आरोपः प्रस्थापितः अस्ति। आक्रमणानन्तरं रूसपक्षतः उक्तम् – वयं तत् आतङ्कवादी-आक्रमणं मन्यामहे। एतत् राष्ट्रपतेः हत्यायाः षडयन्त्रम् आसीत्।

रूससर्वकारेण उक्तं यत् आक्रमणमिदं मई मासस्य ९ दिनाङ्के आयोजितस्य विजयदिवसस्य सञ्चलनात् पूर्वं कृतम् यस्मिन् कार्यक्रमे वैदेशिकाः अतिथयः अपि उपस्थिताः भविष्यन्ति। रूसदेशस्य अस्य आक्रमणस्य प्रतिक्रियायाः अधिकारः अधिकारः अस्ति। स्थानस्य समयस्य च निश्चयः भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्