Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

’वाघबकरी-चाय’ न्यासस्य कार्यकारीनिदेशकस्य परागदेसाई इत्यस्य निधनं जातम्। सः ५० वर्षीयः आसीत्। १५ दिनाङ्के प्रातःकाले भ्रमणार्थं बहिः आगतस्य पराग-देसाई इत्यस्य उपरि वीथिकुक्कुरैः आक्रमणं कृतम् आसीत्। आत्मानं रक्षितुं प्रयतमान: सः पतितः मस्तिष्कस्य रक्तस्रावः च अभवत्। तदनु शीघ्रमेव सः शेल्बी-चिकित्सालये प्रवेशितः। तदनन्तरं सः शल्यक्रियायै जायडस-केडिला-चिकित्सालये स्थानान्तरितः, तत्र अक्टोबर्-मासस्य २२ दिनाङ्के तस्य मृत्युः अभवत्। ’वाघबकरी’ न्यासे तेन नूतनप्रयोगान् कृत्वा अन्ताराष्ट्रियस्तरे ख्याति: वर्धिता आसीत्। 

अद्यतनवार्ता

भारतम्

विश्वम्