हिमाचलतः गुजरातपर्यन्तं नैकेषु अन्यराज्येषु च प्रचण्डवृष्ट्या जनजीवनम् अस्तव्यस्तं जातमस्ति। आर्द्रतायाः कारणेन दिल्ली-एनसीआर-नगरे कष्टं वर्धितमस्ति। देशस्य अनेकेषु राज्येषु प्रावृष् प्रारब्धा अस्ति तथा च नैकेषु राज्येषु अद्यापि वर्षागमनं प्रतीक्षन्ते जना:। देशस्य अनेकेषु भागेषु आर्द्रता वर्धिता अस्ति । अपरं तु पर्वतेषु प्रचण्डवृष्ट्या क्लेशः जातः । केदारनाथ-बद्रीनाथ-गङ्गोत्री-क्षेत्रेषु निरन्तरवृष्ट्या अनेकेषु स्थानेषु भूस्खलनं जातम् । एतेन सह यूपी-बिहारयो: वर्षाकारणात् आतपोपशमनेन जनाः किञ्चित् सुखं प्राप्तवन्तः।
चित्रम् - windy.com