Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानस्य आई.एस.आई इत्यस्य कृते कार्यरतः स्थानीयः कार्यसाधकः गुड्डुकुमारः पश्चिमबङ्गस्य जलपाईगुडीतः गृहीतः। सूत्रेभ्यः प्राप्तसूचनानुसारं गुड्डु भारतीयसेनायाः वायुसेनायाः च शीर्षाधिकारिणः मधुपाशाय नियुक्त: आसीत् । तेनोक्तं यत् वस्तुतः सः आई.एस.आई इत्यस्य प्रभावे आसीत्, दत्तकार्याय सः सिद्धतां करोति स्म परन्तु तत् पूर्वमेव सः गृहीतः अभवत्। 

सूत्रानुसारं यदा सः गृहीतः तदा सः क्षेत्रे भारतीयसेना-वायुसेना-स्थात्रेषु सेना-अधिकारिणां मोबाईल-सङ्ख्याः, छायाचित्रं च संग्रहयति स्म । केन्द्रीयगुप्तचरसंस्थायाः संज्ञानानन्तरं आईएसआई-एजेण्ट् गुड्डुः एसटीएफ-संस्थया २१ दिसम्बर् दिनाङ्के गृहीतः आसीत् । मूलतः बिहारस्य चम्पारणनिवासी अभियुक्तः गुड्डुः सिलिगुरीनगरे रिक्शायानं चालयित्वा जीविकोपार्जनं करोति ।

सूत्रानुसारं तस्य विषये संज्ञानं प्राप्य अत्रत्याः एसटीएफ-कर्मचारिणः तस्य दूरभाषयन्त्रोपयोगस्य निरीक्षणं आरब्धवन्तः, अन्ततः न्यूजलपैगुरी-नगरे तस्य वर्तमानस्थानस्य विषये ज्ञातवन्तः, ततः सः गृहीतः।

अद्यतनवार्ता

भारतम्

विश्वम्