Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

निर्वाचनायोगः अस्मिन् निर्वाचने नूतनसुविधानामारम्भं करिष्यति। निर्वाचनायोगेनोद्घोषितं यत् 3.23-लक्ष-नवमतदातृभ्यः समर्पितमतदानकेन्द्राणि भविष्यन्ति अपि च तेषां मतदानकेन्द्राणां सञ्चालनमपि युवकर्मचारिणः करिष्यन्ति। ये जनाः मतदानकेन्द्रं प्रत्यागन्तुम् असमर्थाः तादृशानां दिव्याङ्गानां वयोवृद्धानां कोविद-संक्रमितानां कृते तेषां गृहे एव मतदानव्यवस्था भविष्यति। मतदानकेन्द्रे प्रतीक्षालय-आरोहिका-जलपान-शौचालयादिनां च व्यवस्था भविष्यति। प्रत्येकं मतदानकेन्द्रे मतदातॄणां सुविधानां निरीक्षणाय समस्यानिवारणाय विशेषनिरीक्षक: नियुक्तः भविष्यति। निर्वाचनायोगः नेशनल-एइड्स-कंट्रोल-ओर्गेनाइझेशन् इति संस्थया सह मिलित्वा गणिकावर्गस्य अपि मतदानप्रक्रियायां योगदानं भवेत् तदर्थं प्रयत्नं करिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्