Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सम्पूर्णभारते संस्कृतं सर्वस्वीकृतभाषा अस्ति। संस्कृतं ज्ञान-विज्ञान-कला-मानवमूल्यानां भाषा अस्ति परन्तु विदेशेषु विज्ञानभाषारूपेण प्रस्थापिताया: संस्कृतभाषाया: महत्त्वं भारते एव यथोचितं नास्ति। मानवसंशाधनविकासमन्त्रालयेन भारतस्य ज्ञानपरम्परावाहिकाया: संस्कृतभाषाया: विकासाय प्रचाराय च दसवर्षीया-परिकल्पना क्रियाविधि: चेति विषये योजनापत्रकं रचितमस्ति। एतस्य परियोजनाया: गुजराते क्रियान्वयनारम्भ: २६ दिनाङ्के गुजरातविश्वविद्यालयस्य सभागृहे मध्याह्ने त्रिवादने भविष्यति। कार्यक्रमेऽस्मिन् राष्ट्रियसंस्कृतसंस्थानस्य कुलपति:, गुजरातराज्यस्य शिक्षणमन्त्री, संस्कृतभारत्या: सङ्घटनमन्त्री अपि च विविधविश्वविद्यालयेभ्य: कुलपतय: प्राध्यापका: विद्वत्तल्लजा: संस्कृतरसिका: छात्राश्च भागं वहिष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्