Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

संस्कृतग्रन्थेषु आधुनिकगणितस्य मूलं निहितमस्ति। न केवलं गणितम् अपि तु विज्ञानं पर्यावरणं जलसंरक्षणं परम्परा संस्कृतिः चैते विषयाः प्राचीनसंस्कृतसाहित्ये वर्णिताः सन्ति तेषु ग्रन्थेषु निहितस्य ज्ञानस्य इदानीमपि यथायोग्यम् उपयोगं कर्तुं शक्यते ।  दुर्भाग्यमस्माकं यत् भारतदेशे राज्यशासनं चालितवद्भिः आङ्ग्लैः संस्कृतं कठिन-विषमभाषारूपेण विदुषां भाषारूपेण प्रस्थापितं येन सामान्यजनः भाषायाः दूरीभूतः । अद्यत्वे संस्कृतस्य तिरस्कारं कुर्वन्तः अपमानं कुर्वन्तः नैके जनाः स्वस्य पित्रोः अन्तिमक्रियानिमित्तं अपत्यानां जन्मतः मृत्युपर्यन्तं सर्वेषु विधिषु  संस्कृतस्यैव प्रयोगं कुर्वन्ति।

पायथागोरसात् बहुभ्यः वर्षेभ्यः पूर्वं बोधायनस्य शुल्वसूत्रेषु नियमः उल्लिखितः अस्ति। न केवलं बोधायनः परन्तु हालायुधः, पिङ्गलः, भास्कराचार्यः, लीलावती, ब्रह्मगुप्तः, श्रीधराचार्यः, आर्यभट्टः, माधवाचार्यः इति नैके विद्वांसः गणितक्षेत्रे स्वयोगदानं दत्तवन्तः । वेदेषु अपि गणितशास्त्रस्य ज्ञानम् आधिक्येन वर्णितमस्ति । त्रिकोणमिति-ज्यामिति-आदयः पाठ्यांशाः अद्यत्वे ’ट्रिगोमेट्री’ ’ज्योमेट्री’ रूपेण विश्वे पाठ्यन्ते । शून्यं अरबदेशस्य भ्रमणं कृत्वा सिफिर् जातं ततः अन्यत्र गत्वा जिफिर् ततः ’जिरो’ अभवत् । नैकाः गाणितिकप्रक्रियाः इदानीं वयं पाश्चात्यविदूषां आविष्कररूपेण पठामः ।

अस्माकं पूर्वजानां अमूल्यस्य ज्ञानस्य विषये अनभिज्ञाः वयं अन्धानुकरणं कुर्वन्तः भारतीयाः जागरुकाः भवेम येन अमूल्यस्य ज्ञानस्य निधिं पुनश्च आत्मसात् कर्तुं शक्नुमः ।

अद्यतनवार्ता

भारतम्

विश्वम्