Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

"मम समीपे माता अस्ति......." इति उक्त्या प्रसिद्धः नायकः शशिकपूरः दिवङ्गतः।
चलचित्रजगतः प्रसिद्धः सफलश्च नायकः शशिकपूरः अद्य दिवङ्गतः। चिरकालात् सः रुग्णः आसीत्। नवसप्ततितमे वर्षे सः स्वस्मरणानि त्यक्त्वा गतः। जब जब फूल खिले, रोटी कपडा और मकान, दिवार, शर्मिली, नमकहलाल, क्रान्ति, सुहाग इत्यादिनि तस्य प्रसिद्धानि चलचित्राणि आसन्। आवारा इति चलचित्रे तेन राजकपूरस्य शैशवस्य पात्रं अभिनीतम् आसीत्। शशिकपूरः पद्मभूषणपुरस्कारेण दासाहेबफाळके-पुरस्कारेण च सम्मानितः अस्ति।
शशिना अष्टचत्वारिंशदधिकशतं हिन्दीचलचित्रेषु द्वादश आङ्ग्लचलचित्रेषु च स्वाभिनयेन भारतीयमनस्सु स्वप्रभावं स्थापितमस्ति।तेन आङ्ग्लाभिनेत्र्या जेनीफर इत्यनया सह विवाहं कृतम् आसीत्।
 
अद्यतनवार्ता

भारतम्

विश्वम्