Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दीपावली पर्व समीपे एव अस्ति तदा प्रस्फोटकानां विक्रयणं स्फोटनं च कदा कथं च एतस्मिन् विषये शीर्षन्यायालयेन महत्त्वपूर्णः निर्णयः स्वीकृतः अस्ति। सर्वोच्चन्यायालयेन उद्घोषितं यत् केवलं आज्ञापत्रं प्राप्तवन्तः विक्रेतारः एव न्यूनतीव्रतायूक्तानां प्रस्फोटकानां विक्रयणं कर्तुं अर्हन्ति। जालपुटमाध्यमेन विक्रयणे प्रतिबन्धः भविष्यति। सर्वोच्चन्यायालयेन प्रस्थापितानां नियमानां पालनं कारयितुं दायित्वं स्थानिकारक्षिकेन्द्रस्य भविष्यति। दीपावल्यां रात्रौ अष्टवादनतः दशवादनपर्यन्तं अपि च क्रिसमसपर्वणि क्रैस्तनववर्षे रात्रौ पादोनद्वादशवादनतः सपादद्वादशवादनपर्यन्तमेव जनाः प्रस्फोटकानाम् आनन्दं स्वीकर्तुं शक्नुवन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्